पाणिनीय लिङ्गानुशासन वृत्तिः- Linganushasana Vritti
04:46
0
लिङ्गं ॥ अयमधिकारो वेदितव्य आशास्त्रपरिसमाप्तेः। स्त्री ॥ इदमधिकृतं वेदितव्यम्। यत्र स्त्रीलिङ्गादन्यलिङ्गं शिष्यते तत्र सूत्र एव लिङ्गं वक्ष्यते। ऋकारान्ता मातृदुहितृस्वसृयातृननन्दरः। ऋकारान्ता मात्रादयः पञ्चैव शब्दाः स्त्रीलिङ्गा भवन्ति। इयं माता। मात्रूः पश्य। इयं दुहिता। स्वसा याता ननान्दा। मात्रादिग्रहणं किम्।