Ads Area

जैमिनीयब्राह्मणम् -Jaimiya Brahmanam

प्राणेनैव जुहोति प्राणे हूयते । तद्यदेतदग्नीन्मन्थन्ति यजमानस्यैव तत्प्राणाञ्जनयन्ति । तद्यावद्वै मन्थन्ति न तर्हि प्राणिति । अरण्योरेवास्य तर्हि प्राणा भवन्ति । तस्य वै मथ्यमानस्य भस्मावशीयते । अन्नमेवास्य तज्जायते । अन्नं म एतदजनीत्येव तद्विद्यात् ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad