विश्वभारती अधिविद्या अधिभूत पाठ – Viswa Bharati Mantra-तैत्तिरीयारण्यक
21:46
0
ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्या- यप्रवचने च । तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च। अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च, इति । सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवैति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः इति ।