Ads Area

Names of the early Sanskrit dictionarians

सर्व्वेषां कोषाणामादि अग्निपुराणोक्ताभिधानं । तत्रादौ स्वर्गपातालादिवर्गः । ततोऽव्ययवर्गः । ततो नानार्थवर्गः । ततो भूपुराद्रिवनौषधिसिंहा- दिवर्गाः । ततो नृब्रह्मक्षत्रविट्शूद्रवर्गाः । शेषे सामान्यानि नामलिङ्गानि सन्तीति मया दृष्टं । अमरसिंहस्तु उक्ताग्निपुराणीयाभिधानस्य कस्यचित् कस्यचित् वर्गस्य व्यतिक्रमं कृत्वा तत्रोदित-सामान्य-नामलिङ्गानां विशेष्य-निघ्न-वर्गसङ्कीर्णवर्गाविति संज्ञां स्थापयित्वा अन्ते लिङ्गादिसंग्रहवर्गस्य योगं कृत्वा स्वीयकोषं रचितवान् । एवं जटाधरोऽपि अमरकोषस्यानुकरणं कृतवान् । इति विरलप्रचारः

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad