Ads Area

निरुक्तम्-यास्क Niruktam of Yaska

Nirukta of Yaska- ओं समाम्नायः समाम्नातः स व्याख्यातव्यस्तमिमं समाम्नाये निघंटव इत्याचक्षते निघंटवः कस्मान्निगमा इमे भवंति छंदोभ्यः समाहृत्य समाहृत्य समाम्नातास्ते निगंतव एव संतो निगमनान्निघंटव उच्यंत इत्यौपमन्यवोऽपि वाहननादेव स्युः समाहता भवंति यद्वा समाहृता भवंति तद्यान्येतानि चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च तानीमानि भवंति तत्रैतन्नामाख्यातयोर्लक्षणं प्रदिशंति भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि तद्यत्रोभे भावप्रधाने भवतः पूर्वापरीभूतं भावमाख्यातेनाचष्टे व्रजति पचतीत्युपक्रमप्रभृत्यपवर्गपर्यंतं मूर्तं सत्त्वभूतं सत्त्वनामभिर्व्रज्या पक्तिरित्यद इति सत्त्वानामुपदेशो गौरश्चः पुरुषो हस्तीति भवतीति भावस्यास्ते शेते व्रजति तिष्ठतीतींद्रियनित्यं वचनमौदुंबरायणः

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad