त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः-18/3
09:46
0
यज्ञदानतपःकर्म न त्याज्यम् त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ Gita 18/3॥ त्याज्यं त्यक्तव्यं दोषवत् दोषः अस्य अस्तीति दोषवत् । किं तत् ? कर्म बन्धहेतुत्वात् सर्वमेव । अथवा, दोषः यथा रागादिः त्यज्यते, तथा त्याज्यम् इति एके कर्म प्राहुः मनीषिणः पण्डिताः साङ्ख्यादिदृष्टिम् आश्रिताः, अधिकृतानां कर्मिणामपि इति । तत्रैव यज्ञदानतपःकर्म न त्याज्यम् इति च अपरे ॥ कर्मिणः एव अधिकृताः, तान् अपेक्ष्य एते विकल्पाः, न तु ज्ञाननिष्ठान् व्युत्थायिनः संन्यासिनः अपेक्ष्य । ‘ज्ञानयोगेन साङ्ख्यानां निष्ठा मया पुरा प्रोक्ता’ (भ. गी. ३ । ३) इति कर्माधिकारात् अपोद्धृताः ये, न तान् प्रति चिन्ता ॥ ननु ‘कर्मयोगेनयोगिनाम्’ (भ. गी. ३ । ) इति अधिकृताः पूर्वं विभक्तनिष्ठाः अपि इह […]