न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते -18/10
09:46
0
मेधावी च्छिन्नसंशयः न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः ॥ Gita 18/10 ॥ न द्वेष्टि अकुशलम् अशोभनं काम्यं कर्म, शरीरारम्भद्वारेण संसारकारणम् , ‘किमनेन ? ’ इत्येवम् कुशले शोभने नित्ये कर्मणि सत्त्वशुद्धिज्ञानोत्पत्तितन्निष्ठाहेतुत्वेन ‘मोक्षकारणम् इदम्’ इत्येवं न अनुषज्जते अनुषङ्गं प्रीतिं न करोति इत्येतत् । कः पुनः असौ ? त्यागी पूर्वोक्तेन सङ्गफलत्यागेन तद्वान् त्यागी, यः कर्मणि सङ्गं त्यक्त्वा तत्फलं च नित्यकर्मानुष्ठायी सः त्यागी । कदा पुनः असौ अकुशलं कर्म न द्वेष्टि, कुशले च न अनुषज्जते इति, उच्यते — सत्त्वसमाविष्टः यदा सत्त्वेन आत्मानात्मविवेकविज्ञानहेतुना समाविष्टः संव्याप्तः, संयुक्त इत्येतत् । अत एव च मेधावी मेधया आत्मज्ञानलक्षणया प्रज्ञया संयुक्तः तद्वान् मेधावी । मेधावित्वादेव च्छिन्नसंशयः छिन्नः अविद्याकृतः संशयः यस्य ‘आत्मस्वरूपावस्थानमेव परं निःश्रेयससाधनम् , न अन्यत् किञ्चित्’ इत्येवं निश्चयेन च्छिन्नसंशयः ॥ यः अधिकृतः पुरुषः पूर्वोक्तेन प्रकारेण कर्मयोगानुष्ठानेन क्रमेण संस्कृतात्मा सन् जन्मादिविक्रियारहितत्वेन निष्क्रियम् आत्मानम् आत्मत्वेन सम्बुद्धः, सः सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन् न कारयन् आसीनः नैष्कर्म्यलक्षणां ज्ञाननिष्ठाम् अश्नुते इत्येतत् । पूर्वोक्तस्य कर्मयोगस्य प्रयोजनम् अनेनैव श्लोकेन उक्तम् ॥ १० ॥ GITA SANKARA BHASYAM