ईशावास्योपनिष- Isha Upanisad Explanation in Sanskrit
09:46
0
‘ईशा वास्यम्’ इत्यादयो मन्त्राः कर्मस्वविनियुक्ताः, तेषामकर्मशेषस्यात्मनो याथात्म्यप्रकाशकत्वात् । याथात्म्यं चात्मनः शुद्धत्वापापविद्धत्वैकत्वनित्यत्वाशरीरत्वसर्वगतत्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुध्यत इति युक्त एवैषां कर्मस्वविनियोगः । न ह्येवंलक्षणमात्मनो याथात्म्यम् उत्पाद्यं विकार्यम् आप्यं संस्कार्यं वा कर्तृभोक्तृरूपं वा, येन कर्मशेषता स्यात् ; सर्वासामुपनिषदामात्मयाथात्म्यनिरूपणेनैवोपक्षयात् , गीतानां मोक्षधर्माणां चैवम्परत्वात् ।