राष्ट्रभृतां ब्राह्मणम्-तैत्तिरीयसंहिता
06:49
0
राष्ट्रकामाय होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रेणैवास्मै राष्ट्रम् अव रुन्द्धे राष्ट्रम् एव भवति । आत्मने होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रम् प्रजा राष्ट्रम् पशवो राष्ट्रं यच् छ्रेष्ठो भवति राष्ट्रेणैव राष्ट्रम् अव रुन्द्धे वसिष्ठः समानानाम् भवति ग्रामकामाय होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रम् सजाता राष्ट्रेणैवास्मै राष्ट्रम् सजातान् अव रुन्द्धे ग्रामी एव भवति