अर्थापत्ति प्रमाणम्-वेदान्तपरिभाषा
09:46
0
तत्र दृष्टार्थापत्तिर्यथा "इदं रजतम्" इति पुरोवर्तिनि प्रतिपन्नस्य रजतस्य "नेदं रजतम्" इति तत्रैव निषिध्यमानत्वं सत्यत्वेऽनुपपन्नम् इति रजतस्य सद्भिन्नत्वं सत्यत्वात्यन्ताभाववत्त्वं वा मिथ्यात्वं कल्पयति । श्रुतार्थापत्तिर्यथा यत्र श्रूयमाणवाक्यस्य स्वार्थानुपपत्तिमुखेन अर्थान्तरकल्पनम् । यथा " तरति शोकमात्मवित्"(छा.उ. ७.१.३) इत्यत्र श्रुतस्य शोकशब्दवाच्यबन्धजातस्य ज्ञाननिवर्त्यत्वस्यान्यथानुपपत्या बन्धस्य मिथ्यात्वं कल्प्यते । यथा वा "जीवी देवदत्तो गृहे न" इति वाक्यश्रवणानन्तरं जीविनो गृहासत्त्वं बहिःसत्त्वं कल्पयति ।