ईशा वास्यमिदं सर्वं यत्किं च जगत्यां जगत् …कस्य स्विद्धनम्
08:46
0
ईशा ईष्टे इति ईट् , तेन ईशा । ईशिता परमेश्वरः परमात्मा सर्वस्य । स हि सर्वमीष्टे सर्वजन्तूनामात्मा सन् प्रत्यगात्मतया । तेन स्वेन रूपेणात्मना ईशा वास्यम् आच्छादनीयम् । किम् ? इदं सर्वं यत्किं च यत्किञ्चित् जगत्यां पृथिव्यां जगत् तत्सर्वम् । स्वेनात्मना ईशेन प्रत्यगात्मतया अहमेवेदं सर्वमिति परमार्थसत्यरूपेणानृतमिदं सर्वं चराचरमाच्छादनीयं परमात्मना । यथा चन्दनागर्वादेरुदकादिसम्बन्धजक्लेदादिजमौपाधिकं दौर्गन्ध्यं तत्स्वरूपनिघर्षणेनाच्छाद्यते स्वेन पारमार्थिकेन गन्धेन, तद्वदेव हि स्वात्मन्यध्यस्तं स्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगद्द्वैतरूपं पृथिव्याम् , जगत्यामित्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं परमार्थसत्यात्मभावनया त्यक्तं स्यात् । एवमीश्वरात्मभावनया युक्तस्य पुत्राद्येषणात्रयसंन्यासे एवाधिकारः, न कर्मसु । तेन त्यक्तेन त्यागेनेत्यर्थः । न हि त्यक्तो मृतः पुत्रो भृत्यो वा आत्मसम्बन्धिताभावादात्मानं पालयति । अतस्त्यागेनेत्ययमेवार्थः । भुञ्जीथाः पालयेथाः । एवं त्यक्तैषणस्त्वं मा गृधः गृधिम् आकाङ्क्षां मा कार्षीः धनविषयाम् । कस्य स्वित् कस्यचित् परस्य स्वस्य वा धनं मा काङ्क्षीरित्यर्थः । स्विदित्यनर्थको निपातः । अथवा, मा गृधः । कस्मात् ? कस्य स्विद्धनम् इत्याक्षेपार्थः । न कस्यचिद्धनमस्ति, यद्गृध्येत । आत्मैवेदं सर्वमितीश्वरभावनया सर्वं त्यक्तम् । अत आत्मन एवेदं सर्वम् , आत्मैव च सर्वम् । अतो मिथ्याविषयां गृधिं मा कार्षीरित्यर्थः ॥