आमरौघ शासन – गोरक्षनाथ Amarogh Sasana of Goraksha Nath
09:46
0
अथाधारणकर्मोदितशङ्खिनीभेदव्यवस्थाव्याख्या गुदमेढ्रान्तरे त्रिकोणत्रिधावर्तभगमण्डलमुच्यते तत्र आधारग्रन्थय एकद्वित्रयश्चेति एकद्वित्रयाणां मध्ये ग्रन्थीनामुपान्तरे चतुष्पत्रं पद्ममधोमुखं तिष्ठति तत्र कर्णिकामध्ये मृणालसूत्रपरिमाणा शङ्खावर्ता तत्र प्रवालाङ्कुरसन्निभा द्वित्रिनाडीभूता कुण्डलिनी शक्तिः चैतन्यबीजमुखं गत्वा सुप्ता