Alphabetical List of Bhagavadgita Slokas
07:46
0
अक्षरं न क्षरतीति अक्षरं परमात्मा, ‘एतस्य वा अक्षरस्य प्रशासने गार्गि’ (बृ. उ. ३ । ८ । ९) इति श्रुतेः । ओङ्कारस्य च ‘ओमित्येकाक्षरं ब्रह्म’ (भ. गी. ८ । १३) इति परेण विशेषणात् अग्रहणम् । परमम् इति च निरतिशये ब्रह्मणि अक्षरे उपपन्नतरम् विशेषणम् । तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यगात्मभावः स्वभावः, स्वो भावः स्वभावः अध्यात्मम् उच्यते । आत्मानं देहम् अधिकृत्य प्रत्यगात्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तु स्वभावः अध्यात्मम् उच्यते अध्यात्मशब्देन अभिधीयते । भूतभावोद्भवकरः भूतानां भावः भूतभावः तस्य उद्भवः भूतभावोद्भवः तं करोतीति भूतभावोद्भवकरः, भूतवस्तूत्पत्तिकर इत्यर्थः । विसर्गः विसर्जनं देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य परित्यागः ; स एष विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दित इत्येतत् । एतस्मात् हि बीजभूतात् वृष्ट्यादिक्रमेण स्थावरजङ्गमानि भूतानि उद्भवन्ति